Surprise Me!

श्रीकृष्ण चरितम् | Shri Krishna Charitam | श्रीकृष्ण जन्माष्टमी पर अवश्य सुनें #krishna

2025-09-03 3 Dailymotion

श्रीकृष्ण चरितम् | Shri Krishna Charitam | श्रीकृष्ण जन्माष्टमी पर अवश्य सुनें #krishna @Mere Krishna

श्रीकृष्णचरितम्

वसुदेव-देवकी-नन्द-यशोदानन्ददायकम् ।
वन्दे योगीश्वरं कृष्णं गीतापीयूषदायकम् ॥ १॥

कंस-कारागृहे जन्म यस्य बाल्यं च गोकुले ।
द्वारकायां कर्मयोगस्तं कृष्णं प्रणमाम्यहम् ॥ २॥

पूतना-धेनुकादीन् यः कंस-प्रेरित-राक्षसान् ।
जघान लीलया वन्दे तमहं यदु-नन्दनम् ॥ ३॥

गोकुलं बाललीलाभिस्तोषयन्तं सुरेश्वरम् ।
रक्षन्तं धेनुपान् धेनूर्नमाम्यच्युतमीश्वरम् ॥ ४॥

सान्दीपनिं गुरुं भक्त्या यस्तुतोष यदूत्तमः ।
शिष्योत्तमं तमादर्शं वन्देऽहं भक्तितः सदा ॥ ५॥

पार्थान् युधिष्ठिरादीन् यः सत्यधर्मपथे स्थितान् ।
आधारं दत्तवान् तस्मै दीनाधाराय ते नमः ॥ ६॥

मोहपङ्के निमग्नं तं विषीदन्तं रणेऽर्जुनम् ।
कर्तव्यं यो दिदेशस्तं यदुश्रेष्ठं नमाम्यहम् ॥ ७॥

सतां संरक्षणार्थाय दुष्टान् दण्डयितुं तथा ।
स्वर्गादवातरद् यो वै तस्मै कृष्णाय ते नमः ॥ ८॥

शिशुपाल-जरासन्ध-कंस-चाणूर-मुष्टिकान् ।
योऽहन् नमामि तं कृष्णं राजनीतिविशारदम् ॥ ९॥

पाण्डवा रक्षिता येन समाश्वस्ता च द्रौपदी ।
निहताः कौरवास्तस्मै गोविन्दाय नमो नमः ॥ १०॥

यो वेदोपनिषत्सारं गीताख्यं जगते ददौ ।
तस्मै पूर्णावताराय श्रीकृष्णाय नमो नमः ॥ ११॥

शङ्क-चक्र-गदा-पद्म-धारिणं श्यामसुन्दरम् ।
श्रीकृष्णं सगुणं द्रष्टुं काङक्षते मम मानसम् ॥ १२॥

विश्वाधारं वासुदेवं सर्वव्यापिनमीश्वरम् ।
सच्चिदानन्दमूर्ति त्वां वन्देऽहं सादरं प्रभो ॥ १३॥

श्रीकृष्णचरितं दिव्यं श्रुत्वाऽऽचरति यस्तथा ।
सफलं जन्म तस्यास्ति निश्चिताऽत्र मतिर्मम ॥ १४॥

इति श्री आपटीकरविरचितं श्रीकृष्णचरितं सम्पूर्णम् ।